📚 स्कन्दपुराणम् (वैष्णवखण्डः) - बदरीभागः
Page 1
Download 📥
________________ प्रथमोऽध्यायः ] बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनम् * ३८६ ॥ श्रीबदरीनाथायनमः ॥ श्रीबदरिकाश्रममाहात्म्यारम्भः प्रथमोऽध्यायः बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनम् शौनक उवाच सूतसुतमहाभाग ! सर्वधर्मविदाम्बर ।। सर्वशास्त्रार्थतत्त्वज्ञ ! पुराणे परिनिष्ठित ॥ २॥ व्यासः सत्यवतीपुत्रो भगवान्विष्णुरव्ययः । तस्वयत्प्रिय शिष्यस्त्वं त्वत्तोवेत्तानकश्चनः प्राप्ते कलियुगे घोरे सर्वधर्मवहिष्कृते । जना वै दुष्टकर्माणः सर्वधर्मविवर्जिताः । क्षुद्रायुः प्राणबलवीर्यतपः क्रियाः । अधर्मनिरताः सर्वे वेदशास्त्र विवर्जिताः ॥ तीर्थाटनतपोदानहरिभक्तिविवर्जिताः । कथमेरामल्पकानामुद्धारोऽल्पप्रयत्नतः ॥ ५ ॥ तीर्थानामुत्तमं तीर्थ क्षेत्राणामुत्तमं तथा । मुमुक्षणां कुतः सिद्धिःकुत्रवाऋपिसञ्चयः कुत्रवाऽल्पप्रयत्नेन तपोमन्त्राश्च सिद्धिदाः । कुत्र वा वसतिश्रीमाञ्जगतामीश्वरेश्वरः